कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमा वल्ली
आनन्दगिरिटीका (काठक)
 
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५ ॥
इदं श्रुतेर्वचनम् — लोकादिं लोकानामादिं प्रथमशरीरित्वात् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच उक्तवान्मृत्युः तस्मै नचिकेतसे । किञ्च, याः इष्टकाः चेतव्याः स्वरूपेण यावतीर्वा सङ्ख्यया यथा वा चीयतेऽग्निर्येन प्रकारेण सर्वमेतदुक्तवानित्यर्थः । स चापि नचिकेताः तत् मृत्युनोक्तं प्रत्यवदत् यथावत्प्रत्ययेनावदत् प्रत्युच्चारितवान् । अथ अस्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनरेवाह वरत्रयव्यतिरेकेणान्यं वरं दित्सुः ॥

सप्रपञ्चमग्निज्ञानं चयनप्रकरणाद्द्रष्टव्यमिति श्रुतिरस्मान्बोधयतीत्याह -

इदं श्रुतेर्वचनमिति ॥ १५ - १६ ॥

विशुद्धिरिति धर्माद्यवगतिः ।