कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमा वल्ली
आनन्दगिरिटीका (काठक)
 
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ १७ ॥
पुनरपि कर्मस्तुतिमेवाह — त्रिणाचिकेतः त्रिः कृत्वा नाचिकेतोऽग्निश्चितो येन सः त्रिणाचिकेतः ; तद्विज्ञानवान्वा । त्रिभिः मातृपित्राचार्यैः एत्य प्राप्य सन्धिं सन्धानं सम्बन्धम् , मात्राद्यनुशासनं यथावत्प्राप्येत्येतत् । तद्धि प्रामाण्यकारणं श्रुत्यन्तरादवगम्यते ‘यथा मातृमान्पितृमान्’ (बृ. उ. ४ । १ । २) इत्यादेः । वेदस्मृतिशिष्टैर्वा प्रत्यक्षानुमानागमैर्वा । तेभ्यो हि विशुद्धिः प्रत्यक्षा । त्रिकर्मकृत् इज्याध्ययनदानानां कर्ता तरति अतिक्रामति जन्ममृत्यू । किञ्च, ब्रह्मजज्ञम् , ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः । सर्वज्ञो ह्यसौ । तं देवं द्योतनाज्ज्ञानादिगुणवन्तम् , ईड्यं स्तुत्यं विदित्वा शास्त्रतः, निचाय्य दृष्ट्वा चात्मभावेन इमां स्वबुद्धिप्रत्यक्षां शान्तिम् उपरतिम् अत्यन्तम् एति अतिशयेनैति । वैराजं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन प्राप्नोतीत्यर्थः ॥

दृष्ट्वा चाऽऽत्मभावेनेति ।

अयमर्थः - विंशत्यधिकानि सप्त शतानीष्टकानां सङ्ख्या संवत्सरस्योरात्राणि च तावत्सङ्ख्याकान्येव सङ्ख्यासामान्यात्तैरिष्टकास्थानीयैश्चितोऽग्निरहमित्यात्मभावेन ध्यात्वेति ॥ १६ - १७ - १८ - १९ ॥