कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमा वल्ली
आनन्दगिरिटीका (काठक)
 
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ २० ॥
एतावद्ध्यतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनावगन्तव्यं यद्वरद्वयसूचितं वस्तु नात्मतत्त्वविषययाथात्म्यविज्ञानम् । अतो विधिप्रतिषेधार्थविषयस्य आत्मनि क्रियाकारकफलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपणशून्यमात्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमित्युत्तरो ग्रन्थ आरभ्यते । तमेतमर्थं द्वितीयवरप्राप्त्याप्यकृतार्थत्वं तृतीयवरगोचरमात्मज्ञानमन्तरेणेत्याख्यायिकया प्रपञ्जयति । यतः पूर्वस्मात्कर्मगोचरात्साध्यसाधनलक्षणादनित्याद्विरक्तस्यात्मज्ञानेऽधिकार इति तन्निन्दार्थं पुत्राद्युपन्यासेन प्रलोभनं क्रियते । नचिकेता उवाच ‘तृतीयं वरं नचिकेतो वृणीष्व’ इत्युक्तः सन् — येयं विचिकित्सा संशयः प्रेते मृते मनुष्ये, अस्ति इत्येके अस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तो देहान्तरसम्बन्ध्यात्मा इत्येके मन्यन्ते, नायमस्ति इति चैके नायमेवंविधोऽस्तीति चैके । अत्र चास्माकं न प्रत्यक्षेण नाप्यनुमानेन निर्णयविज्ञानम् । एतद्विज्ञानाधीनो हि परः पुरुषार्थ इत्यतः एतत् विद्यां विजानीयाम् अहम् अनुशिष्टः ज्ञापितः त्वया । वराणामेष वरस्तृतीयोऽवशिष्टः ॥

पितापुत्रस्नेहादिस्वर्गलोकावसानं यद्वरद्वयसूचितं संसाररूपं तदेव कर्मकाण्डप्रतिपाद्यमात्मन्यारेपितं तन्निवर्तकं चाऽऽत्मज्ञानमित्यध्यारोपापवादभावेन पूर्वोत्तरग्रन्थयोः सम्बन्धमाह -

एतावद्धीति ।

प्रथमवल्लीसमाप्तिपर्यन्ताख्यायिकाया अवान्तरसम्बन्धमाह -

तमेतमर्थमिति ।

देहव्यतिरिक्तात्मास्तित्वे वादिविप्रतिपत्तेः संशयश्चेत्तर्हि प्रत्यक्षादिना स्वस्यैव निर्णयज्ञानसम्भवात्तन्निर्णयस्य निष्प्रयोजनत्वाच्च न तदर्थः प्रश्नः कर्तव्य इत्याशङ्क्याह -

अतश्चास्माकमिति ।

प्रत्यक्षेण स्थाणौ निर्णीते पुरुषो न वेति सन्देहादर्शनाद्व्यतिरिक्तात्मास्तित्वे च सन्देहदर्शनान्न प्रत्यक्षेण निर्णयः परलोकसम्बन्ध्यात्मना च कस्यचिल्लिङ्गस्याविनाभावादर्शनान्नानुमानेनापि निर्णय इत्यर्थः ॥ २० - २१ - २२ ॥