एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥
एतत्तुल्यम् एतेन यथोपदिष्टेन सदृशम् अन्यमपि यदि मन्यसे वरम् , तमपि वृणीष्व । किञ्च, वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्येतत् । किं बहुना ? महाभूमौ महत्यां भूमौ राजा नचिकेतः त्वम् एधि भव । किञ्चान्यत् , कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि, सत्यसङ्कल्पो ह्यहं देवः ॥