कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमा वल्ली
आनन्दगिरिटीका (काठक)
 
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ २८ ॥
यतश्च अजीर्यतां वयोहानिमप्राप्नुवताम् अमृतानां सकाशम् उपेत्य उपगम्य आत्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन् उपलभमानः स्वयं तु जीर्यन् मर्त्यः जरामरणवान् क्वधःस्थः कुः पृथिवी अधश्चासावन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथमेवमविवेकिभिः प्रार्थनीयं पुत्रवित्ताद्यस्थिरं वृणीते । ‘क्व तदास्थः’ इति वा पाठान्तरम् । अस्मिन्पक्षे चैवमक्षरयोजना— तेषु पुत्रादिषु आस्था आस्थितिः तात्पर्येण वर्तनं यस्य स तदास्थः । ततोऽधिकतरं पुरुषार्थं दुष्प्रापमपि अभिप्रेप्सुः क्व तदास्थो भवेत् ? न कश्चित्तदसारज्ञस्तदर्थी स्यादित्यर्थः । सर्वो ह्युपर्युपर्येव बुभूषति लोकः । तस्मान्न पुत्रवित्तादिलोभैः प्रलोभ्योऽहम् । किञ्च, अप्सरःप्रमुखान् वर्णरतिप्रमोदान् अनवस्थितरूपतया अभिध्यायन् निरूपयन् यथावत् अतिदीर्घे जीविते कः विवेकी रमेत ॥

किञ्चोत्कृष्टपुरुषार्थलाभे सम्भवत्यधमं कामयमानो मूर्ख एवाहं स्यां ततोऽपि मम स एव वर इत्याह -

यतश्चाजीर्यतामित्यादिना ॥ २८ - २९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमा वल्ली समाप्ता ॥