कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीया वल्ली
आनन्दगिरिटीका (काठक)
 
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥
परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह — अन्यत् पृथगेव श्रेयः निःश्रेयसं तथा अन्यत् उतैव अपि च प्रेयः प्रियतरमपि ते श्रेयःप्रेयसी उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतः बध्नीतः । ताभ्यां विद्याविद्याभ्यामात्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः । प्रेयःश्रेयसोर्हि अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेयःप्रेयःप्रयोजनकर्तव्यतया ताभ्यां बद्ध इत्युच्यते सर्वः पुरुषः । ते यद्यप्येकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वाद्विरुद्धे इत्यन्यतरापरित्यागेनैकेन पुरुषेण सहानुष्ठातुमशक्यत्वात्तयोः हित्वा अविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्य उपादानं कुर्वतः साधु शोभनं शिवं भवति । यस्त्वदूरदर्शी विमूढो हीयते वियुज्यते अर्थात् पुरुषार्थात्पारमार्थिकात्प्रयोजनान्नित्यात् प्रच्यवत इत्यर्थः । कोऽसौ ? य उ प्रेयः वृणीते उपादत्ते इत्येतत् ॥

अभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याऽविद्याविभागप्रदर्शनेन च केवलविद्यार्थितया शिष्यं प्रथमं स्तौतीत्याह -

परीक्ष्येति ।

श्रेयःप्रेयसोरन्यतरपरित्यागेनैवान्यतरोपादाने हेतुमाह -

ते यद्यपीति ।

ते यद्यप्येकैकपुरुषसम्बन्धिनी तथाऽपि विरुद्धे ॥ १ - २ - ३ - ४ - ५ ॥