कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीया वल्ली
आनन्दगिरिटीका (काठक)
 
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥
अतोऽनन्यप्रोक्त आत्मन्युत्पन्ना येयमागमप्रभवा मतिः, नैषा तर्केण स्वबुद्ध्यभ्यूहमात्रेण आपनेया नापनीया न प्रापणीयेत्यर्थः ; नापनेतव्या वा ; नोपहन्तव्या । तार्किको ह्यनागमज्ञः स्वबुद्धिपरिकल्पितं यत्किञ्चिदेव कल्पयति । अत एव च येयमागमप्रभूता मतिः अन्येनैव आगमाभिज्ञेनाचार्येणैव तार्किकात् , प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मतिः इति, उच्यते — यां त्वं मतिं मद्वरप्रदानेन आपः प्राप्तवानसि । सत्या अवितथविषया धृतिर्यस्य तव स त्वं सत्यधृतिः । बतासीत्यनुकम्पयन्नाह मृत्युर्नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये । त्वादृक् त्वत्तुल्यः नः अस्मभ्यं भूयात् भवतात् । भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा । कीदृक् ? यादृक्त्वं हे नचिकेतः प्रष्टा ॥

अणुत्वं परोक्षत्वम् ॥ ८ - ९ ॥