कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीया वल्ली
आनन्दगिरिटीका (काठक)
 
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥
पुनरपि तुष्ट आह — जानाम्यहं शेवधिः निधिः कर्मफललक्षणः निधिरिव प्रार्थ्यत इति । असौ अनित्यम् अनित्य इति जानामि । न हि यस्मात् अनित्यैः अध्रुवैः यत् नित्यं ध्रुवम् , तत् प्राप्यते परमात्माख्यः शेवधिः । यस्त्वनित्यसुखात्मकः शेवधिः, स एवानित्यैर्द्रव्यैः प्राप्यते हि यतः, ततः तस्मात् मया जानतापि नित्यमनित्यसाधनैः प्राप्यत इति नाचिकेतः चितः अग्निः अनित्यैः द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतोऽग्निः निर्वर्तित इत्यर्थः । तेनाहमधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यमापेक्षिकं प्राप्तवानस्मि ॥

मया जानताऽपि वह्वायासं कर्म कृतं त्वं दीयमानमपि तत्फलं न गृह्णासि मत्तोऽधिकप्रज्ञोऽसीति सन्तोषात्स्तौतीत्याह -

पुनरपि तुष्ट आहेति ॥ १० - ११ ॥