कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीया वल्ली
आनन्दगिरिटीका (काठक)
 
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥
यं त्वं ज्ञातुमिच्छस्यात्मानं तं दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शः अतिसूक्ष्मत्वात् तम् , गूढं गहनम् , अनुप्रविष्टं प्राकृतविषयविज्ञानैः प्रच्छन्नमित्येतत् । गुहाहितं गुहायां बुद्धौ हितं निहितं स्थितं तत्रोपलभ्यमानत्वात् । गह्वरेष्ठं गह्वरे विषमे अनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम् । यत एवं गूढमनुप्रविष्टो गुहाहितश्च, अतोऽसौ गह्वरेष्ठः ; अतो दुर्दर्शः । तं पुराणं पुरातनम् अध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानमध्यात्मयोगः तस्याधिगमः प्राप्तिः तेन मत्वा देवम् आत्मानं धीरः हर्षशोकौ आत्मन उत्कर्षापकर्षयोरभावात् जहाति ॥

यश्च त्वया देहव्यतिरिक्त आत्मा दृष्टस्तस्यैव परमार्थस्वरूपज्ञानं संसारनिवर्तकं परमानन्दप्राप्तिसाधनं धर्म्यं च नातः परं श्रेयःसाधनमस्तीति पृष्टस्य वस्तुनः प्रशंसया च प्रष्टारं प्रशंसति -

यं त्वं ज्ञातुमिच्छसीत्यादिना ॥ १२ - १३ ॥