अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥
एतच्छ्रुत्वा नचिकेताः पुनराह — यद्यहं योग्यः, प्रसन्नश्चासि भगवन् , मां प्रति अन्यत्र धर्मात् शास्त्रीयाद्धर्मानुष्ठानात्तत्फलात्तत्कारकेभ्यश्च पृथग्भूतमित्यर्थः । तथा अन्यत्र अधर्मात् विहिताकरणरूपात् पापात् , तथा अन्यत्रास्मात्कृताकृतात् , कृतं कार्यमकृतं कारणमस्मादन्यत्र । किञ्च, अन्यत्र भूताच्च अतिक्रान्तात्कालात् भव्याच्च भविष्यतश्च तथा अन्यत्र वर्तमानात् । कालत्रयेण यन्न परिच्छिद्यत इत्यर्थः । यदीदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद्वद मह्यम् ॥