सर्वे वेदा इति ।
वेदैकदेशा उपनिषदः । अनेनोपनिषदो ज्ञानसाधनत्वेन साक्षाद्विनियुक्तास्तपांसि कर्माणि शुद्धिद्वारेणावगतिसाधनानि ।
मन्दाधिकारिणो विचारासमर्थस्य क्रमेणावगतिसाधनं सङ्क्षिप्याऽऽह -
सङ्ग्रहेणेति ।
यस्य शब्दस्योच्चारणे यत्स्फुरति तत्तस्य वाच्यं प्रसिद्धं समाहितचित्तस्योङ्कारोच्चारणे यद्विषयानुपरक्तं संवेदनं स्फुरति तदोङ्कारमवलम्ब्य तद्वाच्यं ब्रह्मास्मीति ध्यायेत्तत्राप्यसमर्थ ओंशब्द एव ब्रह्मदृष्टिं कुर्यादित्यर्थः ॥ १५ - १६ ॥