कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीया वल्ली
आनन्दगिरिटीका (काठक)
 
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥
अन्यत्र धर्मादित्यादिना पृष्टस्यात्मनोऽशेषविशेषरहितस्यालम्बनत्वेन प्रतीकत्वेन चोङ्कारो निर्दिष्टः अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तॄन्प्रति । अथेदानीं तस्योङ्कारालम्बनस्यात्मनः साक्षात्स्वरूपनिर्दिधारयिषयेदमुच्यते । न जायते नोत्पद्यते म्रियते वा न म्रियते च उत्पत्तिमतो वस्तुनोऽनित्यस्यानेका विक्रियाः, तासामाद्यन्ते जन्मविनाशलक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वेति । विपश्चित् मेधावी अपरिलुप्तचैतन्यस्वभावत्वात् । किञ्च, नायमात्मा कुतश्चित् कारणान्तरात् बभूव न प्रभूतः । अस्माच्चात्मनो न बभूव कश्चिदर्थान्तरभूतः । अतोऽयमात्मा अजो नित्यः शाश्वतः अपक्षयविवर्जितः । यो ह्यशाश्वतः, सोऽपक्षीयते ; अयं तु शाश्वतः अत एव पुराणः पुरापि नव एवेति । यो ह्यवयवोपचयद्वारेणाभिनिर्वर्त्यते, स इदानीं नवः, यथा कुड्यादिः ; तद्विपरीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः । यत एवम् , अतः न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे ; तत्स्थोऽप्याकाशवदेव ॥

साधनहीनायोपदेशोऽनर्थक इति मत्वोच्चावचमवगतिसाधनमुकत्वा वक्तव्यस्वरूपं यत्पृष्टं तदभिधानायोपक्रमत इत्याह -

अन्यत्र धर्मादित्यादिनेति ।

यद्यात्मनोऽन्यद्ब्रह्म स्यात्तत्र जन्मादिप्राप्त्यभावादप्राप्तनिषेधः स्यादतो जन्मादिप्रतिषेेधेन ब्रह्मोपदिशन्नात्मस्वरूपमेवोपदिशतीति गम्यते । मरणनिमित्ता च नास्तित्वाशङ्कात्मनो मरणाभावेऽस्तित्वविषयप्रश्नस्याप्येतदेव प्रतिवचनं भवतीति द्रष्टव्यम् ॥ १७ - १८ ॥