यद्यविक्रिय एवाऽऽत्मा तर्हि धर्माद्यधिकार्यभावात्तदसिद्धौ संसारोपलम्भ एव न स्यादित्याशङ्क्याह -
अनात्मज्ञविषय एवेति ।
यदज्ञानात्प्रवृत्तिः स्यात्तज्ज्ञानात्सा कुतो भवेदिति न्यायाच्चाऽऽत्मज्ञस्य धर्मादि नोपपद्यतेऽत आत्मज्ञः सदा मुक्त एवेत्याह -
न्यायाच्चेति ।
तदुक्तम् - “विवेकी सर्वदा मुक्तः कुर्वतो नास्ति कर्तृता । अलेपवादमाश्रित्य श्रीकृष्णजनकौ यथा” इति ॥ १९ ॥