कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीया वल्ली
आनन्दगिरिटीका (काठक)
 
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ २० ॥
कथं पुनरात्मानं जानातीति, उच्यते — अणोः सूक्ष्मात् अणीयान् श्यामाकादेरणुतरः । महतो महत्परिमाणात् महीयान् महत्तरः पृथिव्यादेः ; अणु महद्वा यदस्ति लोके वस्तु, तत्तेनैवात्मना नित्येनात्मवत्सम्भवति । तदात्मना विनिर्मुक्तमसत्सम्पद्यते । तस्मादसावेवात्मा अणोरणीयान्महतो महीयान् , सर्वनामरूपवस्तूपाधिकत्वात् । स च आत्मा अस्य जन्तोः ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थित इत्यर्थः । तम् आत्मानं दर्शनश्रवणमननविज्ञानलिङ्गम् अक्रतुः अकामः, दृष्टादृष्टबाह्यविषयेभ्य उपरतबुद्धिरित्यर्थः । यदा चैवं तदा मनआदीनि करणानि धातवः शरीरस्य धारणात्प्रसीदन्तीत्येषां धातूनां प्रसादादात्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यति अयमहमस्मीति साक्षाद्विजानाति ; ततो विगतशोको भवति ॥

अकामत्वादिसाधनान्तरविधानार्थमुत्तरवाक्यमवतारयति -

कथं पुनरिति ।

एकस्याणुत्वं महत्त्वं च विरुद्धं कथमनूद्यत इत्याशङ्क्याणुत्वाद्यध्यासाधिष्ठानत्वादणुत्वादिव्यवहारो न तत्त्वत इत्यविरोधमाह -

अणु महद्वेति ॥ २० ॥