विरुद्धानेकधर्मवत्त्वाद्दुर्विज्ञेयश्चेदात्मा कथं तर्हि पण्डितस्यापि सुज्ञेयः स्यादित्याशङ्क्याऽऽह -
स्थितिगतीति ।
विश्वरूपो मणिर्यथा नानारूपोऽवभासते परं नानाविधोपाधिसन्निधानान्न स्वतो नानारूपः चिन्तामणौ वा यद्यच्चिन्त्यते तत्तच्चिन्तोपाधिकमेवावभासते न तत्त्वतः, तथा स्थितिगतिनित्यानित्यादयो विरुद्धानेकधर्मा येषां तदुपाधिवशादात्माऽपि विरुद्धधर्मवानिवावभासत इति योजना । इति तस्य सुविज्ञेयो भवति । उपाध्यविविक्तदर्शिनस्तु दुर्विज्ञेय एवेत्यर्थः ।
स्वतो विरुद्धधर्मवत्त्वं नास्तीत्येतदेव श्रुतियोजनया दर्शयति -
करणानामित्यादिना ।
एकदेशविज्ञानस्येति ।
मनुष्योऽहं नीलं पश्यामीत्यादिपरिच्छिन्नविज्ञानस्येत्यर्थः ॥ २१ - २२ ॥