न बहुना श्रुतेनेति ।
आत्मप्रतिपादकोपनिषद्विचारातिरिक्ताशास्त्रश्रवणेन न लभ्यः । उपनिषद्विचारेणापि केवलेनेति । सिद्धोपदेशरहितेन न लभ्यत इत्यर्थः ।
परमेश्वराचार्यानुग्रहेण तु लभ्यत इत्याह -
यमेवेति ।
स्वात्मानमेव साधकः श्रवणमननादिभिर्वृणुते सम्भजते श्रवणादिकालेऽपि सोऽहमित्यभेदेनैवानुसन्धत्त इत्यर्थः ।
तेनैवेति ।
लक्षणया परमात्मानुग्रहेणैव वरित्राऽभेदानुसन्धानवता यथानुसन्धानमात्मतयैव परमात्मा लभ्यो भवतीत्यर्थः । वैपरीत्येन वा योजना । आत्मा त्वेष प्रकरणी परमात्माऽन्तर्यामिरूपेणाऽऽचार्यरूपेण वा व्यवस्थितो यमेव मुमुक्षुं वृणुते भजतेऽनुगृह्णाति तेनैव परमेश्वरानुगृहीतेनाभेदानुसन्धानवता लभ्यत इत्यर्थः ॥ २३ ॥