कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीया वल्ली
आनन्दगिरिटीका (काठक)
 
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥
किञ्चान्यत् । न दुश्चरितात् प्रतिषिद्धाच्छ्रुतिस्मृत्यविहितात्पापकर्मणः अविरतः अनुपरतः । नापि इन्द्रियलौल्यात् अशान्तः अनुपरतः । नापि असमाहितःअनेकाग्रमनाः विक्षिप्तचित्तः । समाहितचित्तोऽपि सन्समाधानफलार्थित्वात् नापि अशान्तमानसः व्यापृतचित्तो वा । प्रज्ञानेन ब्रह्मविज्ञानेन एनं प्रकृतमात्मानम् आप्नुयात् , यस्तु दुश्चरिताद्विरत इन्द्रियलौल्याच्च, समाहितचित्तः समाधानफलादप्युपशान्तमानसश्चाचार्यवान् प्रज्ञानेन एवं यथोक्तमात्मानं प्राप्नोतीत्यर्थः ॥

दुश्चरितं कायिकं पापम् ॥ २४ ॥