यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥
यस्त्वनेवंभूतः यस्य आत्मनः ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारके अपि सर्वप्राणभूते उभे ओदनः अशनं भवतः स्याताम् , सर्वहरोऽपि मृत्युः यस्य उपसेचनमिवौदनस्य, अशनत्वेऽप्यपर्याप्तः, तं प्राकृतबुद्धिर्यथोक्तसाधनानभियुक्तः सन् कः इत्था इत्थमेवं यथोक्तसाधनवानिवेत्यर्थः, वेद विजानाति यत्र सः आत्मेति ॥