ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥
ऋतं पिबन्तावित्यस्या वल्ल्याः सम्बन्धः — विद्याविद्ये नाना विरुद्धफले इत्युपन्यस्ते, न तु सफले ते यथावन्निर्णीते । तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थं रथरूपकद्वारा द्वावात्मानावुपन्यस्येते — ऋतं सत्यम् अवश्यंभावित्वात्कर्मफलं पिबन्तौ ; एकस्तत्र कर्मफलं पिबति भुङ्क्ते नेतरः, तथापि पातृसम्बन्धात्पिबन्तावित्युच्येते च्छत्रिन्यायेन । सुकृतस्य स्वयङ्कृतस्य कर्मणः ऋतमिति पूर्वेण सम्बन्धः । लोके अस्मिञ्शरीरे, गुहां गुहायां बुद्धौ प्रविष्टौ, परमे, बाह्यपुरुषाकाशसंस्थानापेक्षया परमम् , परार्धे परस्य ब्रह्मणोऽर्धं स्थानं परार्धं हार्दाकाशम् । तस्मिन्हि परं ब्रह्मोपलभ्यते । ततः तस्मिन्परमे परार्धे हार्दाकाशे प्रविष्टावित्यर्थः । तौ च च्छायातपाविव विलक्षणौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति । न केवलमकर्मिण एव वदन्ति । पञ्चाग्नयो गृहस्थाः । ये च त्रिणाचिकेताः त्रिःकृत्वो नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः ॥