आत्मा रथस्वामी यः कल्पितस्तस्य भोक्तृत्वं च न स्वाभाविकमित्याह -
आत्मेन्द्रियमनोयुक्तमिति ।
अौपाधिके भोक्तृत्वेऽन्वयव्यतिरेकौ शास्त्रञ्च प्रमाणमित्याह -
न हि केवलस्येति ।
वैष्णवपदप्राप्तिश्रुत्यनुपपत्त्याऽपि न स्वाभाविकं भोक्तृत्वं वाच्यमित्याह -
एवं च सतीति ॥ ४ - ५ - ६ - ७ - ८ - ९ ॥