कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीया वल्ली
आनन्दगिरिटीका (काठक)
 
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ १५ ॥
तत्कथमतिसूक्ष्मत्वं ज्ञेयस्येति, उच्यते । स्थूला तावदियं मेदिनी शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम् । तत्रैकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टमबादिषु यावदाकाशमिति । ते गन्धादयः सर्व एव स्थूलत्वाद्विकाराः शब्दान्ताः यत्र न सन्ति, किमु तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यमित्येतद्दर्शयति श्रुतिः — अशब्दमस्पर्शमरूपमरसमगन्धवच्च यत् , एतद्व्याख्यातं ब्रह्म । अव्ययम् , यद्धि शब्दादिमत् , तद्व्येति ; इदं त्वशब्दादिमत्त्वादव्ययं न व्येति न क्षीयते ; अत एव च नित्यम् ; यद्धि व्येति, तदनित्यम् ; इदं तु न व्येति ; अतो नित्यम् । इतश्च नित्यम् — अनादि अविद्यमानः आदिः कारणमस्य तदिदमनादि । यच्चादिमत् , तत्कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि ; इदं तु सर्वकारणत्वादकार्यम् , अकार्यत्वान्नित्यम् ; न तस्य कारणमस्ति यस्मिन्प्रलीयेत । तथा अनन्तम् अविद्यमानोऽन्तः कार्यमस्य तदनन्तम् । यथा कदल्यादेः फलादिकार्योत्पादनेनाप्यनित्यत्वं दृष्टम् , न च तथाप्यन्तवत्त्वं ब्रह्मणः ; अतोऽपि नित्यम् । महतः महत्तत्त्वाद्बुद्ध्याख्यात् परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात् ; सर्वसाक्षि हि सर्वभूतात्मत्वाद्ब्रह्म । उक्तं हि — ‘एष सर्वेषु भूतेषु’ (क. उ. १ । ३ । १२) इत्यादि । ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवदापेक्षिकं नित्यत्वम् । तत् एवंभूतं ब्रह्म आत्मानं निचाय्य अवगम्य तम् आत्मानं मृत्युमुखात् मृत्युगोचरादविद्याकामकर्मलक्षणात् प्रमुच्यते वियुज्यते ॥

यावद्यावद्गुणापचयस्तावत्तावत्तारतम्येन सौक्ष्म्यं दृष्टं पृथिव्यादिषु परमात्मनि तु गुणानामत्यन्ताभावान्निरतिशयं सौक्ष्म्यं दृष्टं सिध्यतीत्याह -

स्थूला तावदित्यादिना ॥ १५ - १६ - १७ ॥

इति काठकोपनिषद्भाष्यटीकायां प्रथमाध्याये तृतीया वल्ली समाप्ता इति ॥
श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमोऽध्यायः समाप्तः ॥