कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीया वल्ली
आनन्दगिरिटीका (काठक)
 
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४ ॥
एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः, अतस्तद्दर्शनार्थमनाद्यविद्याप्रसुप्ताः उत्तिष्ठत हे जन्तवः, आत्मज्ञानाभिमुखा भवत ; जाग्रत अज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत । कथम् ? प्राप्य उपगम्य वरान् प्रकृष्टानाचार्यांस्तत्त्वविदः, तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति निबोधत अवगच्छत ; न ह्युपेक्षितव्यमिति श्रुतिरनुकम्पया आह मातृवत् , अतिसूक्ष्मबुद्धिविषयत्वाज्ज्ञेयस्य । किमिव सूक्ष्मबुद्धिरिति, उच्यते — क्षुरस्य धारा अग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया । यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसम्पाद्यमित्येतत् ; पथः पन्थानं तत् तं ज्ञानलक्षणं मार्गं कवयः मेधाविनो वदन्ति । ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वदन्तीत्यभिप्रायः ॥

क्रमेणैवं विषयदोषदर्शनेनाभ्यासेन च बाह्यकरणान्तःकरणव्यापारप्रविलापने सति प्रविलापनकर्तुः कः पुरुषार्थः सिद्ध्यतीत्यत आह -

एवं पुरुष इत्यादिना ॥ १४ ॥