एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते ।
दृश्यते त्वग्न्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥
ननु गतिश्चेदागत्यापि भवितव्यम् , कथम् ‘यस्माद्भूयो न जायते’ (क. उ. १ । ३ । ८) इति ? नैष दोषः । सर्वस्य प्रत्यगात्मत्वादवगतिरेव गतिरित्युपचर्यते । प्रत्यगात्मत्वं च दर्शितम् इन्द्रियमनोबुद्धिपरत्वेन । यो हि गन्ता सोऽयमप्रत्यग्रूपं पूरुषं गच्छति अनात्मभूतं न विन्दति स्वरूपेण । तथा च श्रुतिः ‘अनध्वगा अध्वसु पारयिष्णवः’ ( ? ) इत्याद्या । तथा च दर्शयति प्रत्यगात्मत्वं सर्वस्य — एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतः दर्शनश्रवणादिकर्मा अविद्यामायाच्छन्नः अत एव आत्मा न प्रकाशते आत्मत्वेन कस्यचित् । अहो अतिगम्भीरा दुरवगाह्या विचित्रा चेयं माया, यदयं सर्वो जन्तुः परमार्थतः परमार्थसतत्त्वोऽप्येवं बोध्यमानोऽहं परमात्मेति न गृह्णाति, अनात्मानं देहेन्द्रियादिसङ्घातमात्मनो दृश्यमानमपि घटादिवदात्मत्वेनाहममुष्य पुत्र इत्यनुच्यमानोऽपि गृह्णाति । नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोकोऽयं बम्भ्रमीति । तथा च स्मरणम् — ‘नाहं प्रकाशः सर्वस्य योगमायासमावृतः’ (भ. गी. ७ । २५) इत्यादि । ननु विरुद्धमिदमुच्यते — मत्वा धीरो न शोचति, न प्रकाशत इति च । नैतदेवम् । असंस्कृतबुद्धेरविज्ञेयत्वान्न प्रकाशत इत्युक्तम् । दृश्यते तु संस्कृतया अग्न्यया, अग्रमिवाग्न्या तया, एकाग्रतयोपेतयेत्येतत् ; सूक्ष्मया सूक्ष्मवस्तुनिरूपणपरया । कैः ? सूक्ष्मदर्शिभिः ‘इन्द्रियेभ्यः परा ह्यर्थाः’इत्यादिप्रकारेण सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनः, तैः सूक्ष्मदर्शिभिः, पण्डितैरित्येतत् ॥