कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीया वल्ली
आनन्दगिरिटीका (काठक)
 
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ११ ॥
महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अव्यक्तं सर्वस्य जगतो बीजभूतमव्याकृतनामरूपं सतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अव्यक्तम् अव्याकृताकाशादिनामवाच्यं परमात्मन्योतप्रोतभावेन समाश्रितं वटकणिकायामिव वटवृक्षशक्तिः । तस्मादव्यक्तात् परः सूक्ष्मतरः सर्वकारणकारणत्वात्प्रत्यगात्मत्वाच्च महांश्च, अत एव पुरुषः सर्वपूरणात् । ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह — पुरुषान्न परं किञ्चिदिति । यस्मान्नास्ति पुरुषाच्चिन्मात्रघनात्परं किञ्चिदपि वस्त्वन्तरम् , तस्मात्सूक्ष्मत्वमहत्त्वप्रत्यगात्मत्वानां सा काष्ठा निष्ठा पर्यवसानम् । अत्र हि इन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि परिसमाप्तम् । अत एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः, ‘यद्गत्वा न निवर्तन्ते’ (भ. गी. १५ । ६) इति स्मृतेः ॥

प्रलये सर्वकार्यकारणशक्तीनामवस्थानमभ्युपगन्तव्यं शब्दार्थसम्बन्धशक्तिलक्षणस्य नित्यत्वनिर्वाहाय । तासां शक्तीनां समाहारो मायातत्त्वं भवति ब्रह्मणोऽसङ्गत्वादिति शक्तिसमाहाररूपमव्यक्तमित्यर्थः । “तद्धेदं तर्ह्यव्याकृतमासीत्” (बृ. उ. १ । ४ । ७) “एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च”(बृ. उ. ३ । ८ । ११) “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”(श्वे. उ. ४ । १०) इत्यादिश्रुतिप्रसिद्धं चाव्यक्तम् । तस्य साङ्ख्याभिमतप्रधानाद्वैलक्षण्यमाह -

परमात्मनीति ।

शक्तित्वेनाद्वितीयत्वाविरोधित्वमाह -

वटकणिकायामिवेति ।

भाविवटवृक्षशतक्तिमद्वटबीजं स्वशक्त्या न सद्द्वितीयं कथ्यते तद्वद् ब्रह्मापि न मायाशक्त्या सद्वितीयम् । सत्त्वादिरूपेण निरूप्यमाणे व्यक्तिरस्य नास्तीत्यव्यक्तम् । ततोऽव्यक्तशब्दादप्यद्वैताविरोधित्वं द्रष्टव्यम् । सर्वस्य प्रपञ्चस्य कारणमव्यक्तम् । तस्य परमात्मपरतन्त्रत्वात्परमात्मन उपचारेण कारणत्वमुच्यते न त्वव्यक्तवद्विकारितयाऽनादित्वादव्यक्तस्य पारतत्र्यं च पृथक्सत्त्वे प्रमाणाभावादात्मसत्तयैव सत्तावत्त्वाच्चेत्यर्थः ॥ ११ ॥