कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीया वल्ली
आनन्दगिरिटीका (काठक)
 
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥
अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्यारभ्य सूक्ष्मतारतम्यक्रमेण प्रत्यगात्मतयाधिगमः कर्तव्य इत्येवमर्थमिदमारभ्यते । स्थूलानि तावदिन्द्रियाणि, तानि यैः परैरर्थैरात्मप्रकाशनायारब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यः ते परा हि अर्थाः सूक्ष्मा महान्तश्च प्रत्यगात्मभूताश्च । तेभ्योऽपि अर्थेभ्यश्च परं सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः । मनःशब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मम् , सङ्कल्पविकल्पाद्यारम्भकत्वात् । मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः, बुद्धिशब्दवाच्यमध्यवसायाद्यारम्भकं भूतसूक्ष्मम् । बुद्धेरात्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वादात्मा महान् सर्वमहत्त्वात् अव्यक्ताद्यत्प्रथमं जातं हैरण्यगर्भं तत्त्वं बोधाबोधात्मकं महानात्मा बुद्धेः पर इत्युच्यते ॥

प्रत्यगात्मभूताश्चोति ।

प्रत्यगनपायिस्वरूपभूता इत्यर्थः । नन्वर्थेभ्यो मनस आरम्भकं भूतसूक्ष्मं परम् तस्माद् बुद्ध्यारम्भकं भूतसूक्ष्यं परमिति न युक्तम् । कार्यापेक्षया ह्यपादानमुपचितावयवं व्यापकमनपायिस्वरूपं च प्रसिद्धम् । यथा घटादेर्मृदादिः । न चेह भूतसूक्ष्माणां परस्परकार्यकारणभावे मानमस्ति । सत्यम् , तथाऽपि विषयेन्द्रियव्यवहारस्य मनोऽधीनतादर्शनान्मनस्तावद्व्यापकं कल्प्यते । तच्च परमार्थत एवाऽऽत्मभूतमिति केषाञ्चिद् भ्रमस्तन्निरासायोक्तं मनः शब्दवाच्यं भूतसूक्ष्ममिति । ‘अन्नमयं हि सोम्य मन’(छा. उ. ६ । ५ । ४) इत्यादिश्रुतेर्भौतिकत्वावगमादन्नभावाभावाभ्यामुपचयापचयदर्शनाद्भौतिकमेव तत् । तस्य च सङ्कल्पादिलक्षणस्याध्यवसायनियम्यत्वाद् बुद्धेेस्ततः परत्वमिति ।

बुद्धिश्चाऽऽत्मेति केषाञ्चिदभिमानस्तदपनयार्थमाह -

बुद्धिशब्दवाच्यमिति ।

करणत्वादिन्द्रियवत् बुद्धेर्भौतिकत्वं सिद्धम् । करणत्वं च स्वबुद्ध्याऽहमुपलभे इत्यनुभवात्सिद्धम् । ततो भूतावयवसंस्थानेष्वेवार्थादिषूत्तरोत्तरं परत्वं कल्प्यं परमपुरुषार्थदिदर्शयिषया । न त्वर्थादीनां परत्वं प्रतिपिपादयिषितं प्रयोजनाभावाद्वाक्यभेदप्रसङ्गाच्चेति । सुरनरतिर्यगादिबुद्धीनां विधारकत्वात्सातत्यगमनादात्मोच्यते । सूत्रसंज्ञकं हैरण्यगर्भतत्त्वमित्यर्थः ।

बोधाबोधात्मकमिति ।

ज्ञानक्रियाशक्त्यात्मकमित्यर्थः । अथवाऽधिकारिपुरुषाभिप्रायेण बोधात्मकत्वमव्यक्तस्याऽऽद्यः परिणाम उपाधिरपञ्चीकृतभूतात्मकस्तेन रूपेणाबोधात्मकत्वं हिरण्यगर्भस्येत्यर्थः ॥ १० ॥