इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥
इन्द्रियाणि चक्षुरादीनि हयानाहुः रथकल्पनाकुशलाः, शरीररथाकर्षणसामान्यात् । तेषु इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन्विषयान् विद्धि । आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुतमात्मानं भोक्तेति संसारीति आहुः मनीषिणः विवेकिनः । न हि केवलस्यात्मनो भोक्तृत्वमस्ति ; बुद्ध्याद्युपाधिकृतमेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादि । एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते, नान्यथा, स्वभावानतिक्रमात् ॥