कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीया वल्ली
आनन्दगिरिटीका (काठक)
 
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥
तत्र यः उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्षगमनाय संसारगमनाय च, तस्य तदुभयगमने साधनो रथः कल्प्यते — तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि विजानीहि ; शरीरं रथम् एव तु रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य । बुद्धिं तु अध्यवसायलक्षणां सारथिं विद्धि ; बुद्धिनेतृप्रधानत्वाच्छरीरस्य, सारथिनेतृप्रधान इव रथः । सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण । मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहमेव च रशनामेव विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥

तत्रेति ।

तयोः प्रथमग्रन्थोक्तयोरात्मनोर्मध्ये ॥ ३ ॥