कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीया वल्ली
आनन्दगिरिटीका (काठक)
 
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ २ ॥
आश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच्च ज्ञातुं शकेमहि । परापरे ब्रह्मणी कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः ; तयोरेव ह्युपन्यासः कृतः ‘ऋतं पिबन्तौ’ इति ॥

पूर्वेषां यद्यपि ब्रह्मवित्त्वादि सम्भवति प्रभावातिशयात्तथाऽपि नाऽऽधुनिकानामल्पप्रज्ञानां सम्भवतीत्याशङ्क्य चेतनत्वात्स्वाभाविकी ज्ञातृत्वयोग्यताऽस्तीत्यभिप्रेत्य तात्पर्यमाह -

परापरे इति ॥ २ ॥