कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थी वल्ली
आनन्दगिरिटीका (काठक)
 
येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३ ॥
यद्विज्ञानान्न किञ्चिदन्यत्प्रार्थयन्ते ब्राह्मणाः, कथं तदधिगम इति, उच्यते — येन विज्ञानस्वभावेनात्मना रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् मैथुननिमित्तान्सुखप्रत्ययान् विजानाति विस्पष्टं जानाति सर्वो लोकः । ननु नैवं प्रसिद्धिर्लोकस्य आत्मना देहादिविलक्षणेनाहं विजानामीति । देहादिसङ्घातोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति । ननु देहादिसङ्घातस्यापि शब्दादिस्वरूपत्वाविशेषाद्विज्ञेयत्वाविशेषाच्च न युक्तं विज्ञातृत्वम् । यदि हि देहादिसङ्घातो रूपाद्यात्मकः सन् रूपादीन्विजानीयात् , तर्हि बाह्या अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च विजानीयुः । न चैतदस्ति । तस्माद्देहादिलक्षणांश्च रूपादीन् एतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावेनात्मना विजानाति लोकः । यथा येन लोहो दहति सोऽग्निरिति तद्वत् आत्मनोऽविज्ञेयम् । किम् अत्र अस्मिंल्लोके परिशिष्यते न किञ्चित्परिशिष्यते सर्वमेव त्वात्मना विज्ञेयम् , यस्यात्मनोऽविज्ञेयं न किञ्चित्परिशिष्यते, स आत्मा सर्वज्ञः । एतद्वै तत् । किं तत् यन्नचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं धर्मादिभ्योऽन्यत् विष्णोः परमं पदं यस्मात्परं नास्ति तद्वै एतत् अधिगतमित्यर्थः ॥

मूूढानां व्यतिरिक्तेनाऽऽत्मना देहादेर्वेद्यत्वं यद्यपि न प्रसिद्धं तथाऽपि विचारकाणां व्यतिरिक्तेनैव वेद्यत्वं प्रसिद्धं ततो यच्छब्देन प्रसिद्धवत्परामर्शो न विरुध्यत इति परिहरति -

न त्वेवं देहादीत्यादिना ।

दैहिकाः शब्दादयो न स्वात्मानमन्यं च विजानीयुः शब्दादित्वाद् दृश्यत्वाच्च बाह्यवत् ।

विपक्षे बाधकमाह -

यदि हीति ॥ ३ - ४ - ५ ॥

यः कश्चित्पूर्वं तपसो जातं पश्यति स प्रकृतं ब्रह्मैव पश्यतीति सम्बन्धः । अद्भ्यः पूर्वमित्यादिना हिरण्यगर्भस्य विशेषणान्तःकरणांशेन जीवावच्छेदकत्वाज्जीवतादात्म्यविवक्षया विशेषणं शब्दादीनुपलभमानमिति ।