कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थी वल्ली
आनन्दगिरिटीका (काठक)
 
‘एष सर्वेषु भूतेषु गुढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या’ (क. उ. १ । ३ । १२) इत्युक्तम् । कः पुनः प्रतिबन्धोऽग्र्याया बुद्धेः, येन तदभावादात्मा न दृश्यत इति तददर्शनकारणप्रदर्शनार्था वल्ली आरभ्यते ; विज्ञाते हि श्रेयःप्रतिबन्धकारणे तदपनयनाय यत्न आरब्धुं शक्यते, नान्यथेति —

अनादिरविद्याप्रतिबन्धः प्रागुक्तोऽधुनाऽऽगन्तुकप्रतिबन्धदर्शनायोत्तरवल्ल्यारम्भ इति सम्बन्धमाह -

एष सर्वेष्वित्यादिना ।

यदीन्द्रियाण्यन्तर्मुखानि स्युस्तदा तान्यात्मनिष्ठतयाऽमृतत्वमीयुरत इन्द्रियाणि बहिर्मुखानि सृष्टानीति यत्तत्तेषां हननमेव कृतमिर्त्थः । ‘आप्लृ’ व्याप्ताविति धात्वर्थानुसारेण व्यापक आत्मशब्दार्थः । यद्यस्मादादत्ते संहरति स्वात्मन्येव सर्वमिति जगदुपादानं लभ्यते विषयानत्तीत्यात्मेति व्युत्पत्त्या स्वचैतन्याभासेनोपलब्धृत्वमात्मशब्दार्थः । येन कारणेनास्याऽऽत्मनः सन्ततो निरन्तरा भावः कल्पितस्याधिष्ठानसत्तामन्तरेण सत्ताभावाद्यथा रज्ज्वामध्यस्ते सर्पे रज्ज्वाः सातत्यं तथा कल्पितं सर्वं येन स्वस्वरूपवत्स आत्मेत्यर्थः ॥ १ - २ ॥

कथं तदधिगम इति किं वैदिकत्वाद्धर्मवत्परोक्षत्वेन किंवा घटादिवत्सिद्धत्वादपरोक्षत्वेनापीत्याकाङ्क्षायामात्मत्वाद् ब्रह्मणोऽपरोक्षत्वेनैवावगमः सम्यगवगम इत्युच्यते -

येनेत्यादिना ।