कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थी वल्ली
आनन्दगिरिटीका (काठक)
 
मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥
प्रागेकत्वविज्ञानादाचार्यागमसंस्कृतेन मनसैव इदं ब्रह्मैकरसम् आप्तव्यम् आत्मैव नान्यदस्तीति । आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वात् इह ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि । यस्तु पुनरविद्यातिमिरदृष्टिं न मुञ्चति इह ब्रह्मणि नानेव पश्यति, स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन्नित्यर्थः ॥

एकरसं चेद् ब्रह्म कथं ज्ञातृज्ञेयविभाग इत्याशङ्क्याज्ञं प्रति कल्पितभेेदेनेत्याह -

प्रागेकत्वविज्ञानादिति ॥ ११ ॥