कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थी वल्ली
आनन्दगिरिटीका (काठक)
 
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२ ॥
पुनरपि तदेव प्रकृतं ब्रह्माह — अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः । अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्यन्तःकरणोपाधिरङ्गुष्ठमात्रः अङ्गुष्ठमात्रवंशपर्वमध्यवर्त्यम्बरवत् । पुरुषः पूर्णमनेन सर्वमिति । मध्ये आत्मनि शरीरे तिष्ठति यः तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा, न तत इत्यादि पूर्ववत् ॥

अङ्गुष्ठपरिमाणं जीवमनूद्य ब्रह्मभावविधानाद्विधीयमानविरोधादङ्गुष्ठमात्रस्याविवक्षितत्वाद्ब्रह्मपरमेव वाक्यमित्याह -

पुनरपि तदेवेति ॥ १२ - १३ - १४ - १५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये प्रथमवल्ली समाप्ता ॥