पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥
पुनरपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थोऽयमारम्भः, दुर्विज्ञेयत्वाद्ब्रह्मणः — पुरं पुरमिव पुरम् । द्वारद्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसम्पत्तिदर्शनात् शरीरं पुरम् । पुरं च सोपकरणं स्वात्मना असंहतस्वतन्त्रस्वाम्यर्थं दृष्टम् । तथेदं पुरसामान्यादनेकोपकरणसंहतं शरीरं स्वात्मना असंहतराजस्थानीयस्वाम्यर्थं भवितुमर्हति । तच्चेदं शरीराख्यं पुरम् एकादशद्वारम् ; एकादश द्वाराण्यस्य — सप्त शीर्षण्यानि, नाभ्या सहार्वाञ्चि त्रीणि, शिरस्येकम् , तैरेकादशद्वारं पुरम् । कस्य ? अजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । अवक्रचेतसः अवक्रम् अकुटिलमादित्यप्रकाशवन्नित्यमेवावस्थितमेकरूपं चेतो विज्ञानमस्येति अवक्रचेताः तस्यावक्रचेतसः राजस्थानीयस्य ब्रह्मणः यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा । ध्यानं हि तस्यानुष्ठानं सम्यग्विज्ञानपूर्वकम् । तं सर्वैषणाविनिर्मुक्तः सन्समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानादभयप्राप्तेः शोकावसराभावात्कुतो भयेक्षा । इहैवाविद्याकृतकामकर्मबन्धनैर्विमुक्तो भवति । विमुक्तश्च सन्विमुच्यते ; पुनः शरीरं न गृह्णातीत्यर्थः ॥