कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥
हन्तेदानीं पुनरपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सनातनं चिरन्तनं प्रवक्ष्यामि । यद्विज्ञानात्सर्वसंसारोपरमो भवति, अविज्ञानाच्च यस्य मरणं प्राप्य यथा च आत्मा भवति यथा आत्मा संसरति तथा शृणु हे गौतम ॥

येयं प्रेत इति प्रष्टुः परलोकेऽस्तित्वेऽपि सन्देह आसीत् । विशेषतस्तन्निवृत्त्यर्थमुच्यत आह -

हन्तेदानीमिति ॥ ६ - ७ - ८ ॥