ननु जन्ममरणकारणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चेति । नानात्मानो व्यवस्थात इत्यनेकतार्किकबुद्धिविरोधात्सर्वपुरवर्त्येक एवाऽऽत्मेत्यत्र न चित्तस्थैर्यं सम्भवतीत्याशङ्क्यौपाधिकभेदसाधने सिद्धसाधनं स्वाभाविकभेदसाधने चानैकान्तिकत्वं दर्शयितुं प्रक्रमत इत्याह -
अनेकतार्किकेत्यादिना ।
प्रतिरूपः उपाधिसदृशश्चतुष्कोणत्वादिधर्मके हि दारुणि तद्रूपो वह्निरपि लक्ष्यत इत्यर्थः ॥ ९ - १० ॥