कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥
एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्यादिति प्राप्ते, इदमुच्यते — सूर्यः यथा चक्षुष आलोकेनोपकारं कुर्वन्मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् न लिप्यते चाक्षुषैः अशुच्यादिदर्शननिमित्तैराध्यात्मिकैः पापदोषैः बाह्यैश्च अशुच्यादिसंसर्गदोषैः एकः सन् , तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः । लोको ह्यविद्यया स्वात्मन्यध्यस्तया कामकर्मोद्भवं दुःखमनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणि विपरीतबुद्ध्यध्यासनिमित्तात्तु तद्दोषवद्विभाव्यन्ते ; न तद्दोषैस्तेषां लेपः, विपरीतबुद्ध्यध्यासबाह्या हि ते ; तथा आत्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखमनुभवति ; न त्वात्मा सर्वलोकात्मापि सन् विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन । कुतः ? बाह्यः रज्ज्वादिवदेव विपरीतबुद्ध्यध्यासबाह्यो हि स इति ॥

परमात्मा दुःखी स्याद्दुःख्यभिन्नत्वाल्लोकवदित्याह -

एकस्य सर्वात्मकत्व इति ।

अविद्यायां प्रतिबिम्बितश्चिद्धातुरज्ञो भ्रान्तो भवति । भ्रान्तश्च कामादिदोषप्रयुक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्मन्यध्यस्यति ।

परमात्मा तु निरविद्यत्वाद्दुःखसाधनशून्यत्वान्न दुःखी ततो न प्रयोजको हेतुरित्याह -

लोको ह्यविद्ययेति ।

स्वरूपेण भ्रामाविषयत्वं विपरीतबुद्ध्यध्यासबाह्यत्वं रज्ज्वादीनां तथा चैतन्यस्योपाधिस्वरूपेणाध्यासाश्रयत्वेऽपि निरुपाधिकबिम्बकल्पब्रह्मरूपेणाध्यासानाश्रयत्वान्न दुःखित्वप्राप्तिरित्यर्थः ॥ ११ ॥