एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥
किञ्च, स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः, न तत्समोऽभ्यधिको वान्योऽस्ति । वशी, सर्वं ह्यस्य जगद्वशे वर्तते । कुतः ? सर्वभूतान्तरात्मा । यत एकमेव सदैकरसमात्मानं विशुद्धविज्ञानघनरूपं नामरूपाद्यशुद्धोपाधिभेदवशेन बहुधा अनेकप्रकारेण यः करोति स्वात्मसत्तामात्रेण अचिन्त्यशक्तित्वात् , तत् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेणाभिव्यक्तमित्येतत् — न हि शरीरस्याधारत्वमात्मनः, आकाशवदमूर्तत्वात् ; आदर्शस्थं मुखमिति यद्वत् — तमेतमीश्वरमात्मानं ये निवृत्तबाह्यवृत्तयः अनुपश्यन्ति आचार्यागमोपदेशमनु साक्षादनुभवन्ति धीराः विवेकिनः, तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, नेतरेषां बाह्यासक्तबुद्धीनामविवेकिनां स्वात्मभूतमपि, अविद्याव्यवधानात् ॥