कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥
किञ्च, नित्यः अविनाशी नित्यानाम् अविनाशिनाम् । चेतनः चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम् । अग्निनिमित्तमिव दाहकत्वमनग्नीनामुदकादीनामात्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषाम् । किञ्च, स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्तांश्च कामान् यः एको बहूनाम् अनेकेषाम् अनायासेन विदधाति प्रयच्छतीत्येतत् । तम् आत्मस्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिः उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यात् । न इतरेषाम् अनेवंविधानाम् ॥

इदानीं परमात्मन्युपपत्तिप्रदर्शनार्थमाह -

किञ्च नित्य इति ।

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदित्यादिश्रुतेरकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहाराच्च कल्पान्तरीयभावानां प्रलीनानां कल्पान्तरे सजातीयरूपेणोत्पादः प्रतीयते स तदा स्याद्यदि विनाशिनां भावानां शक्तिशेषो लयः स्यात् । ततः प्रलये विनश्यत्सर्वं यत्र शक्तिशेषं विलीयते सोऽभ्युपगन्तव्य इत्यर्थः ।

बुद्धिमतामपि ब्रह्मेन्द्रादीनां परमानन्दाभिमुख्यं हित्वा या बहिर्मुखा चेतनोपलभ्यते साऽपि नियन्तारं गमयतीत्याह -

चेतनश्चेतनानामिति ।

ब्रह्मादिशब्दवाच्यानां सङ्घातानां वा चेतयितृत्वं यच्चैतन्यनिमित्तं सेऽस्ति पर आत्मेत्यर्थः ।

विमतं कर्मफलं तत्स्वरूपाद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलवदित्याह -

किञ्च स इति ॥ १३ ॥