शाल्मल्यादितूलदर्शनेनादृष्टमपि वृक्षमूलं यथाऽस्तीत्यवधार्यते तद्वददृष्टस्यापि ब्रह्मणोऽवधारणाय प्रक्रमत इत्याह -
तूलावधारणेनेति ।
वृक्षशब्दप्रवृत्तिनिमित्तमाह -
व्रश्चनादिति ।
“व्रश्चू छेदने” अस्य धातोः सप्रत्ययान्तस्य रूपं वृक्ष इति ।
छेद्यत्वे युक्तिमाह -
जन्मजरेत्यादिना ।
प्रसिद्धवृक्षसाम्याद्वा वृक्षशब्दप्रयोग इत्यभिप्रेत्याऽऽह -
अवसाने चेत्यादिना ।
प्रसिद्धो वृक्षः स्थाणुर्वा पुरुषो वेति विकल्पास्पदो दृष्टस्तथाऽयमपि सङ्घातो वा परिमाणो वाऽऽरब्धो वा सद्वाऽसद्वेत्यादीनामनेकेषां शतसङ्ख्याकपाषण्डबुद्धिविकल्पानां विषय इत्यर्थः । किसंज्ञकोऽयं वृक्ष इत्यनध्यवसायगोचरः कश्चिद्वृक्षो दृष्टस्तथाऽयमपीति साम्यम् ।
साम्यान्तरमाह -
तत्त्वविजिज्ञासुभिरिति ।
अपरब्रह्मणो विज्ञानक्रियाशक्तिद्वयात्मको हिरण्यगर्भः प्रथमोऽवस्थाभेदोऽङ्कुरोऽस्येति तथोक्तः । बुद्धीन्द्रियाणां विषयाः शब्दादयः प्रवालाङ्कुराः किसलयान्यस्येति स तथोक्तः । श्रुत्यादीनि पलाशानि पत्राण्यस्येति । सुखदुःखे प्राणिवेदना एवानेको रसोऽस्येति । फलतृष्णैव सलिलावसेकस्तेन प्ररूढानि कर्मवासनादीनि सात्त्विकादिभावेन मिश्रीकृतानि दृढबन्धनान्यवान्तरमूलान्यस्य वटवृक्षस्येव तथोक्तः । सत्यनामादिषु सप्तलोकेषु ब्रह्मादीनि भूतान्येव पक्षिणस्तैः कृतं नीडं यस्मिन् । प्राणिनां सुखदुःखाभ्यामुद्भूतौ हर्षशोकौ ताभ्यां यथासङ्ख्येन जातानि नृत्यादीनि रुदितादिशब्दाश्चैतैः कृतस्तुमुलीभूतो महारवो यस्मिन्निति विग्रहः ॥ १ ॥