कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठी वल्ली
आनन्दगिरिटीका (काठक)
 
यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥
यद्विज्ञानादमृता भवन्तीत्युच्यते, जगतो मूलं तदेव नास्ति ब्रह्म ; असत एवेदं निःसृतमिति, तन्न — यदिदं किञ्च यत्किञ्चेदं जगत्सर्वं प्राणे परस्मिन्ब्रह्मणि सति एजति कम्पते, तत एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते । यदेवं जगदुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम् , महच्च तत् भयं च बिभेत्यस्मादिति महद्भयम् , वज्रमुद्यतम् उद्यतमिव वज्रम् ; यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते, तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणमप्यविश्रान्तं वर्तत इत्युक्तं भवति । ये एतत् विदुः स्वात्मप्रवृत्तिसाक्षिभूतमेकं ब्रह्म अमृताः अमरणधर्माणः ते भवन्ति ॥

कार्यस्य शून्यतापर्यन्तं नष्टस्यासत्त्वपूर्वकमेव जन्म ततो नास्ति मूलमिति शङ्कते -

यद्विज्ञानादिति ।

तन्न । शशविषाणादेरसतः समुत्पत्त्यदर्शनात्सत्पूर्वकत्वप्रसिद्धेश्चास्ति सद्रूपं वस्तु जगतो मूलं तच्च प्राणपदलक्ष्यं प्राणप्रवृत्तेरपि हेतुत्वादित्यर्थः ॥ २ ॥