इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥
तच्च इह जीवन्नेव चेत् यद्यशकत् शक्तः सन् जानातीत्येतत् , भयकारणं ब्रह्म बोद्धुम् अवगन्तुम् , प्राक् पूर्वं शरीरस्य विस्रसः अवस्रंसनात्पतनात् संसारबन्धनाद्विमुच्यते । न चेदशकद्बोद्धुम् , ततः अनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु, लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति ; शरीरं गृह्णातीत्यर्थः । तस्माच्छरीरविस्रंसनात्प्रागात्मावबोधाय यत्न आस्थेयः यस्मादिहैवात्मनो दर्शनमादर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते, न लोकान्तरेषु ब्रह्मलोकादन्यत्र । स च दुष्प्रापः ॥