कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठी वल्ली
आनन्दगिरिटीका (काठक)
 
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥
कथं तर्हि तस्य अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते — न सन्दृशे सन्दर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम् । अतः न चक्षुषा सर्वेन्द्रियेण, चक्षुर्ग्रहणस्योपलक्षणार्थत्वात् , पश्यति नोपलभते कश्चन कश्चिदपि एनं प्रकृतमात्मानम् । कथं तर्हि तं पश्येदिति, उच्यते — हृदा हृत्स्थया बुद्ध्या, मनीषा मनसः सङ्कल्पादिरूपस्य ईष्टे नियन्तृत्वेनेति मनीट् तया मनीषा विकल्पवर्जितया बुद्ध्या । मनसा मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तः अभिसमर्थितः अभिप्रकाशित इत्येतत् । आत्मा ज्ञातुं शक्य इति वाक्यशेषः । तमात्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥

कथं दर्शनमुपपद्यत इति प्रष्टुः कोऽभिप्रायः किं विषयतया दर्शनं वक्तव्यमुताविषयतयैव दर्शनोपायो वाच्यः, प्रथमं प्रत्याह -

न सन्दृश इति ।

रूपादिमत्तद्विशेषणं च दर्शनविषययोग्यं भवति तदभावादित्यर्थः ।

द्वितीयं प्रत्याह -

कथं तर्हीति ।

बाह्यकरणग्रामोपरमेऽपि यदा मनो विषयान्सङ्कल्पयते तदा मुमुक्षोर्बुद्धिस्तस्य नियन्त्री भवति । हे मनः किमर्थं त्वं पिशाचवत्प्रधावसि । न तावत्स्वप्रयोजनार्थम् । तव जडत्वात्प्रयोजनसम्बन्धानुपपत्तेर्विषयाणां च क्षयिष्णुत्वादिदोषदुष्टानां सम्बन्धेन प्रयोजनानुपपत्तेः । नापि चेतनार्थम् । तस्यासङ्गत्वात्परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनीडुच्यत इत्याह -

मनस इति ।

अविकल्पयित्र्येति ।

विषयकल्पनाशून्यया ब्रह्मास्मीत्यविषयतयैव ब्रह्मभावव्यञ्जिकया महावाक्योत्थया बुद्धिवृत्त्या ज्ञातुं शक्यत इति सम्बन्धः ।

कथम्भूत आत्मेत्यत आह -

मनसेति ।

यद्यन्मया दृश्यते बाह्यं घटादि तत्तदहं यथा न भवामि तथाऽस्मिन्नपि सङ्घाते यद्यद्दृश्यं तत्तदहं न भवामि किन्तु योऽत्र ज्ञोंऽशः सोऽपि सर्वशरीरेष्वेकलक्षणलक्षितत्वादेक एवेति विचारेण प्रथमं सम्भावित इत्यर्थः ॥ ९ ॥