श्रुतवेदान्तानामपि केषाञ्चिद्ब्रह्मास्मीतिबुद्धिस्थैर्यादर्शनादस्ति किञ्चित्प्रतिबन्धकान्तरं तदपनयोपायोऽप्यन्यो वक्तव्य इत्यभिप्रेत्याऽऽह -
सा हृदिति ।
श्रवणमननाभ्यां प्रमाणप्रमेयासम्भावनानिरासेऽपि चित्तस्यानेकाग्रतादोषः प्रतिबन्धकः सम्भवति तदपनयाय योगोऽनुष्ठातव्य उपदिश्यत इत्यर्थः ।
यदनुगतानीति ।
येन येन मनसाऽधिष्ठितानि तेन तेन सहावतिष्ठन्ते निवृत्तव्यापाराणि भवन्तीत्यर्थः ॥ १० ॥