कथं दर्शनमुपपद्यत इति प्रष्टुः कोऽभिप्रायः किं विषयतया दर्शनं वक्तव्यमुताविषयतयैव दर्शनोपायो वाच्यः, प्रथमं प्रत्याह -
न सन्दृश इति ।
रूपादिमत्तद्विशेषणं च दर्शनविषययोग्यं भवति तदभावादित्यर्थः ।
द्वितीयं प्रत्याह -
कथं तर्हीति ।
बाह्यकरणग्रामोपरमेऽपि यदा मनो विषयान्सङ्कल्पयते तदा मुमुक्षोर्बुद्धिस्तस्य नियन्त्री भवति । हे मनः किमर्थं त्वं पिशाचवत्प्रधावसि । न तावत्स्वप्रयोजनार्थम् । तव जडत्वात्प्रयोजनसम्बन्धानुपपत्तेर्विषयाणां च क्षयिष्णुत्वादिदोषदुष्टानां सम्बन्धेन प्रयोजनानुपपत्तेः । नापि चेतनार्थम् । तस्यासङ्गत्वात्परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनीडुच्यत इत्याह -
मनस इति ।
अविकल्पयित्र्येति ।
विषयकल्पनाशून्यया ब्रह्मास्मीत्यविषयतयैव ब्रह्मभावव्यञ्जिकया महावाक्योत्थया बुद्धिवृत्त्या ज्ञातुं शक्यत इति सम्बन्धः ।
कथम्भूत आत्मेत्यत आह -
मनसेति ।
यद्यन्मया दृश्यते बाह्यं घटादि तत्तदहं यथा न भवामि तथाऽस्मिन्नपि सङ्घाते यद्यद्दृश्यं तत्तदहं न भवामि किन्तु योऽत्र ज्ञोंऽशः सोऽपि सर्वशरीरेष्वेकलक्षणलक्षितत्वादेक एवेति विचारेण प्रथमं सम्भावित इत्यर्थः ॥ ९ ॥