कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठी वल्ली
आनन्दगिरिटीका (काठक)
 
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥ १० ॥
सा हृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते — यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञानानि — ज्ञानार्थत्वाच्छ्रोत्रादीनीन्द्रियाणि ज्ञानान्युच्यन्ते — अवतिष्ठन्ते सह मनसा यदनुगतानि, येन सङ्कल्पादिव्यावृत्तेनान्तःकरणेन । बुद्धिश्च अध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते, तामाहुः परमां गतिम् ॥

श्रुतवेदान्तानामपि केषाञ्चिद्ब्रह्मास्मीतिबुद्धिस्थैर्यादर्शनादस्ति किञ्चित्प्रतिबन्धकान्तरं तदपनयोपायोऽप्यन्यो वक्तव्य इत्यभिप्रेत्याऽऽह -

सा हृदिति ।

श्रवणमननाभ्यां प्रमाणप्रमेयासम्भावनानिरासेऽपि चित्तस्यानेकाग्रतादोषः प्रतिबन्धकः सम्भवति तदपनयाय योगोऽनुष्ठातव्य उपदिश्यत इत्यर्थः ।

यदनुगतानीति ।

येन येन मनसाऽधिष्ठितानि तेन तेन सहावतिष्ठन्ते निवृत्तव्यापाराणि भवन्तीत्यर्थः ॥ १० ॥