उत्तरमन्त्रमवतारयितुं शङ्कामुद्भावयति -
बुद्ध्यादिचेष्टाविषयं चेदिति ।
घटोऽस्तीति प्रतिपन्नस्य घटस्य मुद्गराभिघाताद्विलापने घटाकार एव विलीयते नास्तित्वांशस्तस्य कपालादावप्यनुवृत्तिदर्शनात् ।
अतः कार्यविलापनस्यास्तित्वनिष्ठत्वान्न शून्यतापर्यवसायी लय इत्युक्तमेतत्स्फुटयति -
तथा हीति ।
स्थूलस्य कार्यस्य विलये सूक्ष्मं तत्कारणमवशिष्यते तस्यापि विलये ततः सूक्ष्ममिति यावद्दर्शनं व्याप्तिमुपलभ्य यत्र न दृश्यते तत्रापि मूर्तविलयस्यावश्यम्भावित्वात्सन्मात्रमेवामूर्तमवतिष्ठत इति कार्यमेव सूक्ष्मतारतम्यपारम्पर्येणानुस्रियमाणं सद्बुद्धिनिष्ठां पुरुषस्य गमयतीत्यर्थः ।
ननु यद्दृश्यं तदसद्यथा स्वप्नदर्शनमिति व्याप्तिदर्शनादस्तित्वेन दृश्यस्यासत्त्वात्सद्बुद्धिरपि नास्त्येवेत्याशङ्क्याऽऽह -
यदाऽपीति ।
सद्बुद्धिरपि नास्तीत्येवम्भूतः प्रत्ययोऽवश्यमस्तीत्यभ्युपगन्तव्यम् । अन्यथा निषेधव्यवहारायोगात् । अतोऽन्ततो गत्वा सद्बुद्धिः स्वीकृता स्यादित्यर्थः ।
ततः किमित्यत आह -
बुद्धिर्हीति ।
व्यभिचारिष्वपि विषयेषु सन्मात्रबुद्धेरव्यभिचारदर्शनाद्बुद्धेश्च स्वतः प्रामाण्यात्सन्मात्रं वस्त्वभ्युपगन्तव्यमित्यर्थः ।
इतश्च सदेव मूलं जगतो वाच्यमित्याह -
मूलं चेदिति ।
नास्ति जगतो मूलं ब्रह्मेत्यवगमेऽपि प्रतियोगितया ब्रह्मज्ञानसम्भवात्किमिति मुमुक्षुणा ब्रह्मज्ञानकामेनास्तीत्येवोपलब्घव्यमित्याह -
कस्मादिति ।
प्रतियोगितया ज्ञानस्य निषेध्यत्वादात्मतया ज्ञानं न स्यादतो ब्रह्मज्ञानकामेनास्ति जगन्मूलमित्यवगन्तव्यमेवेत्याह -
अस्तीति ब्रुवत इत्यादिना ॥ १२ ॥