कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठी वल्ली
आनन्दगिरिटीका (काठक)
 
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥
तस्मादपोह्यासद्वादिपक्षमासुरम् अस्तीत्येव आत्मा उपलब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितोऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः, तदा तस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनस्तत्त्वभावो भवति । तेन च रूपेणात्मोपलब्धव्य इत्यनुवर्तते । तत्राप्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतत्त्वभावयोः — निर्धारणार्था षष्ठी — पूर्वमस्तीत्येवोपलब्धस्यात्मनः सत्कार्योपाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्यर्थः । पश्चात्प्रत्यस्तमितसर्वोपाधिरूप आत्मनः तत्त्वभावः विदिताविदिताभ्यामन्योऽद्वयस्वभावः नेति नेतीत्यस्थूलमनण्वह्रस्वमदृश्येऽनात्म्ये निरुक्तेऽनिलयन इत्यादिश्रुतिनिर्दिष्टः प्रसीदति अभिमुखीभवति । आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥

सोपाधिकस्याऽऽत्मनो ज्ञानान्मुक्त्यसम्भवान्निरुपाधिकज्ञानायापि प्रयतितव्यमित्याह -

यदा त्विति ।

सोपाधिके प्रथमं स्थिरीभूतस्य तद्द्वारेण लक्ष्यपदार्थावगमे सति क्रमेण वाक्यार्थावगतिः सम्भाव्यत इत्याह -

तत्राप्युभयोरित्यादिना ।

सदुपलभ्यमानं कार्यमुपाधिर्यस्य कारणत्वस्य तत्कृतो योऽस्तित्वप्रत्ययः कारणत्वादस्ति पर आत्मेति तेनोपलब्धस्येति योजना ॥ १३ ॥