कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठी वल्ली
आनन्दगिरिटीका (काठक)
 
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥
एवं परमार्थात्मदर्शिनो यदा यस्मिन्काले सर्वे कामाः कामयितव्यस्यान्यस्याभावात् प्रमुच्यन्ते विशीर्यन्ते ; ये अस्य प्राक्प्रतिबोधाद्विदुषो हृदि बुद्धौ श्रिताः आश्रिताः ; बुद्धिर्हि कामानामाश्रयः नात्मा, ‘कामः सङ्कल्पः’ (बृ. उ. १ । ५ । ३) इत्यादिश्रुत्यन्तराच्च ; अथ तदा मर्त्यः प्राक्प्रबोधादासीत् स प्रबोधोत्तरकालमविद्याकामकर्मलक्षणस्य मृत्योर्विनाशात् अमृतो भवति गमनप्रयोजकस्य मृत्योर्विनाशाद्गमनानुपपत्तेः । अत्र इहैव प्रदीपनिर्वाणवत्सर्वबन्धनोपशमात् ब्रह्म समश्नुते ब्रह्मैव भवतीत्यर्थः ॥

सर्वे कामा इति ।

प्रवृत्तफलकर्मोपस्थापिते शरीरस्थितिनिमित्तान्नपानादौ प्रवृत्तिकारणेच्छाव्यतिरिक्ताः सर्वे कामाः काम्येन ज्योतिष्टोमादिना स्वर्गं प्राप्स्यामि त्रैपुर्याराधनेन जनं वशीकरिष्यामीत्येवमादयः ; स्वर्गादिदेहेष्वप्यहमेव तिष्ठामि तद्भोगाश्च प्राप्ता एवाप्राप्तविषयश्य कामो व्यर्थो मिथ्या चासाविति विचारेण विशीर्यन्त इत्यर्थः ।

कामाश्रय आत्मेति वैशेषिकमतं श्रुतिबाह्यत्वान्नाऽऽदरणीयमेवेत्याह -

बुद्धिर्हीति ॥ १४ ॥