कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठी वल्ली
आनन्दगिरिटीका (काठक)
 
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥
बुद्ध्यादिचेष्टाविषयं चेद्ब्रह्म इदं तदिति विशेषतो गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावादनुपलभ्यमानं नास्त्येव ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चासदिति । अतश्चानर्थको योगोऽनुपलभ्यमानत्वाद्वा नास्तीत्युपलब्धव्यं ब्रह्मेत्येवं प्राप्ते, इदमुच्यते । सत्यम् । नैव वाचा न मनसा न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यते इत्यर्थः । तथापि सर्वविशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव, कार्यप्रविलापनस्यास्तित्वनिष्ठत्वात् । तथा हीदं कार्यं सौक्ष्म्यतारतम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठामेवावगमयति । यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिः, तदापि सा सत्प्रत्ययगर्भैव विलीयते । बुद्धिर्हि नः प्रमाणं सदसतोर्याथात्म्यावगमे । मूलं चेज्जगतो न स्यादसदन्वितमेवेदं कार्यमसदसदित्येव गृह्येत, न त्वेतदस्ति ; सत्सदित्येव तु गृह्यते ; यथा मृदादिकार्यं घटादि मृदाद्यन्वितम् । तस्माज्जगतो मूलमात्मा अस्तीत्येवोपलब्धव्यः । कस्मात् ? अस्तीति ब्रुवतः अस्तित्ववादिन आगमार्थानुसारिणः श्रद्दधानादन्यत्र नास्तिकवादिनि नास्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद्ब्रह्म तत्त्‌वत उपलभ्यते ; न कथञ्चनोपलभ्यत इत्यर्थः ॥

उत्तरमन्त्रमवतारयितुं शङ्कामुद्भावयति -

बुद्ध्यादिचेष्टाविषयं चेदिति ।

घटोऽस्तीति प्रतिपन्नस्य घटस्य मुद्गराभिघाताद्विलापने घटाकार एव विलीयते नास्तित्वांशस्तस्य कपालादावप्यनुवृत्तिदर्शनात् ।

अतः कार्यविलापनस्यास्तित्वनिष्ठत्वान्न शून्यतापर्यवसायी लय इत्युक्तमेतत्स्फुटयति -

तथा हीति ।

स्थूलस्य कार्यस्य विलये सूक्ष्मं तत्कारणमवशिष्यते तस्यापि विलये ततः सूक्ष्ममिति यावद्दर्शनं व्याप्तिमुपलभ्य यत्र न दृश्यते तत्रापि मूर्तविलयस्यावश्यम्भावित्वात्सन्मात्रमेवामूर्तमवतिष्ठत इति कार्यमेव सूक्ष्मतारतम्यपारम्पर्येणानुस्रियमाणं सद्बुद्धिनिष्ठां पुरुषस्य गमयतीत्यर्थः ।

ननु यद्दृश्यं तदसद्यथा स्वप्नदर्शनमिति व्याप्तिदर्शनादस्तित्वेन दृश्यस्यासत्त्वात्सद्बुद्धिरपि नास्त्येवेत्याशङ्क्याऽऽह -

यदाऽपीति ।

सद्बुद्धिरपि नास्तीत्येवम्भूतः प्रत्ययोऽवश्यमस्तीत्यभ्युपगन्तव्यम् । अन्यथा निषेधव्यवहारायोगात् । अतोऽन्ततो गत्वा सद्बुद्धिः स्वीकृता स्यादित्यर्थः ।

ततः किमित्यत आह -

बुद्धिर्हीति ।

व्यभिचारिष्वपि विषयेषु सन्मात्रबुद्धेरव्यभिचारदर्शनाद्बुद्धेश्च स्वतः प्रामाण्यात्सन्मात्रं वस्त्वभ्युपगन्तव्यमित्यर्थः ।

इतश्च सदेव मूलं जगतो वाच्यमित्याह -

मूलं चेदिति ।

नास्ति जगतो मूलं ब्रह्मेत्यवगमेऽपि प्रतियोगितया ब्रह्मज्ञानसम्भवात्किमिति मुमुक्षुणा ब्रह्मज्ञानकामेनास्तीत्येवोपलब्घव्यमित्याह -

कस्मादिति ।

प्रतियोगितया ज्ञानस्य निषेध्यत्वादात्मतया ज्ञानं न स्यादतो ब्रह्मज्ञानकामेनास्ति जगन्मूलमित्यवगन्तव्यमेवेत्याह -

अस्तीति ब्रुवत इत्यादिना ॥ १२ ॥