तस्मादपोह्यासद्वादिपक्षमासुरम् अस्तीत्येव आत्मा उपलब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितोऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति
‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः, तदा तस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनस्तत्त्वभावो भवति । तेन च रूपेणात्मोपलब्धव्य इत्यनुवर्तते । तत्राप्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतत्त्वभावयोः — निर्धारणार्था षष्ठी — पूर्वमस्तीत्येवोपलब्धस्यात्मनः सत्कार्योपाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्यर्थः । पश्चात्प्रत्यस्तमितसर्वोपाधिरूप आत्मनः तत्त्वभावः विदिताविदिताभ्यामन्योऽद्वयस्वभावः नेति नेतीत्यस्थूलमनण्वह्रस्वमदृश्येऽनात्म्ये निरुक्तेऽनिलयन इत्यादिश्रुतिनिर्दिष्टः प्रसीदति अभिमुखीभवति । आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥